पञ्चाङ्गम् = पञ्चानामङ्गानां समाहारो यस्मिन्विद्यते
[ पञ्चाङ्गानि = तिथिवारकरणयोगनक्षत्राणि ]
तिथिर्वारं च नक्षत्रं योगः करणमेव च ।
पञ्चङ्गमिति विख्यातं लोकोयं कर्मसाधकः ॥
एतेषां श्रवणान्नित्यं गङ्गास्नानफलं भवेत् ॥
तिथेश्च श्रियमाप्नोति वारादायुष्यवर्धनम् ।
नक्षत्राद्धरते पापं योगाद्रोगनिवारणम् ॥
करणात्कार्यसिद्धिः स्यात्पञ्चाङ्गफलमुत्तमम् । [करणात्कार्यसिद्धिश्च पञ्चाङ्गफलमुच्यते ।]
कालवित्कर्म कृद्धीमान्देवतानुग्रहं लभेत् ॥
एतेषां श्रवणान्नित्यं गङ्गास्नानफलं भवेत् ॥ [लभेत्]
॥ तिथिः ॥
प्रतिपच्च द्वितीया च तृतीया च चतुर्थिका ।
पञ्चमी च तथा षष्ठी सप्तमी चाष्टमी तथा ॥ १ ॥
नवमी सा तिथिः प्रोक्ता दशम्यैकादशी तथा ।
द्वादशी च तथा प्रोक्ता तथा चैव त्रयोदशी ॥ २ ॥
चतुर्दशी पूर्णिमा चाप्यमावास्या तिथयः षोडशस्मृताः ।
१। प्रतिपत् २। द्वितीया ३। तृतीया ४। चतुर्थी ५। पञ्चमी ६। षष्ठी ७। सप्तमी ८। अष्टमी
९। नवमी १०। दशमी ११। एकादशी १२। द्वादशी १३। त्रयोदशी। १४। चतुर्दशी १५। पूर्णिमा / अमावास्या इति
॥ वासरः ॥
भानुश्च सोमवारश्च मङ्गलो बुधसंज्ञकः ।
बृहस्पतिश्शुक्रशनी सप्तवाराः प्रकीर्तिताः ॥
१। भानुवासरः/रविवासरः २। सोमवासरः/इन्दुवासरः ३। मङ्गलवासरः/कुजवासरः /भौमवासरः ४। बुधवासरः /सौम्यवासरः ५। बृहस्पतिवासरः/ गुरुवासरः ६। शुक्रवासरः/भृगुवासरः ७। शनिवासरः/मन्दवासरः/स्थिरवासरः इति सप्तवासराः ।
॥ नक्षत्रम् ॥
अश्विनी भरणी चैव कृत्तिका रोहिणी मृगः ।
आर्द्रापुनर्वसूपुष्यस्तथाऽश्लेषा मघा ततः ॥ १ ॥
पूर्वफाल्गुनिका तस्मादुत्तराफाल्गुनी ततः ।
हस्तश्चित्रा तथा स्वाती विशाखा तदनन्तरम् ॥ २ ॥
अनूराधा ततो ज्येष्ठा ततो मूलं निगद्यते ।
पूर्वाषाढोत्तराषाढा त्वभिजिच्छ्रवणस्तथा ॥ ३ ॥
धनिष्ठा शतताराख्या पूर्वाभाद्रपदा ततः ।
उत्तराभाद्रपच्चैव रेवत्येतानि भानि च ॥ ४ ॥
१। अश्विनी २। भरणी ३। कृत्तिका ४। रोहिणी ५। मृगशीर्षा ६। आद्रा ७। पुनर्वसू ८। पुष्यः ९। आश्लेषा १०। मघा ११। पूर्वफल्गुनी १२। उत्तरफल्गुनी १३। हस्ता १४। चित्रा १५। स्वाती १६। विशाखा १७। अनुराधा १८। ज्येष्ठा १९। मूला २०। पूर्वाषाढा २१। उत्तराषाढा २२। श्रवणः २३। धनिष्ठा २४। शततारा २५। पूर्वाभाद्रा २६। उत्तराभाद्रा २७। रेवती इति २७ नक्षत्राणि ।
॥ योगः ॥
विष्कम्भः प्रीतिरायुष्मान् सौभाग्यश्शोभनस्तथा ।
अतिगण्डः सुकर्मा च धृतिः शूलस्तथैव च ॥ १ ॥
गण्डो वृद्धिः धृवश्चैव व्याघातो हर्षणस्तथा ।
वज्रसिद्धिव्यतीपाताः वरीयान्परिघश्शिवः ॥ २ ॥
सिद्धः साद्ध्यः शुभः शुक्लः ब्रह्मा ऐन्द्रश्च वैधृतिः ।
एते योगास्तु विज्ञेयाः सप्तविंशतिसङ्ख्यकाः ॥ ३ ॥
१। विष्कम्भः २। प्रीतिः ३। आयुष्मान् ४। सौभाग्यः ५। शोभनः ६। अतिगण्डः ७। सुकर्मा ८। धृतिः ९। शूलः १०। गण्डः ११। वृद्धिः १२। धृवः १३। व्याघातः १४। हर्षणः १५। वज्रः १६। सिद्धिः १७। व्यतीपातः १८। वरीयान् १९। परिघः २०। शिवः २१। सिद्धः २२। साद्ध्यः २३। शुभः २४। शुक्लः २५। ब्रह्मा २६। ऐन्द्रः २७। वैधृतिः इत्येते २७ योगाः ।
॥ करणः ॥
[ ब्रह्मवैवर्तपुराणम् ]
बवश्च बालवश्चैव कौलवस्तैतिलस्तथा ॥८१॥
गरश्च वणिजश्चापि विष्टिश्च शकुनिस्तथा ।
चतुष्पाच्चापि नागश्च किंस्तुघ्न इति कीर्तितम् ॥८२॥
१। बवः २। बालवः ३। कौलवः ४। तैतिलः ५। गरः/गरजः ६। वणिक् ७। विष्टिः/भद्रः ८। शकुनिः ९। चतुष्पात् १०। नाग/नागवान् ११। किंस्तुघ्न इति ११ करणाः ।
जन्मनक्षत्रमारभ्य नित्यभान्तं च गण्यते ।
नवसङ्ख्याहृतं भागं नवताराः प्रकीर्तिताः ।
जन्मसम्पद्विपद्क्षेमप्रत्यग्साधननैधनम् ।
मित्रं परममैत्रं च नवताराः प्रकीर्तिताः ।
जन्मभं देहनाशाय सम्पत्सम्पद एव च ।
विपच्च कार्यनाशाय क्षेमं क्षेमकृते भवेत् ।
प्रत्यक्च कार्यनाशाय साधनं कार्यसाधने ।
नैधनं निधनेपि स्यान्मित्रं च सुखसम्पदि ।
निधनं निधनाय स्यान्मित्रं च सुखसंपदे ।
परममैत्रं सुखे विन्द्यात्ताराबलमिति क्रमात् ।
सुखाय परममैत्रं च ताराबलमिति क्रमात् ।
जन्मन्यर्को हिमकरसुतः सैंहिकेयस्सुरेज्यः ।
केतुश्चान्द्रो दिनकरसुतो भार्गवो मूमिपुत्रः ।
तापं लाभं क्षतिधृतिलयान्कीर्ति हानिप्रमोदान् ।
मृत्युं ताराबलमनुदिनं ते दिशन्ति क्रमेण ।
मयूरहयमेषाश्च गजवायसजम्बुकाः ।
मृगेन्द्रो वैनतेयश्च हंसस्युर्जन्मभादिषु ।
मयूरश्च मनस्तापं हयो लभार्थसंपदौ ।
मेषस्तु कलहं चैव राज्यप्राप्तिं गजस्तथा ।
वयसः कार्यनाशं च जम्बुकस्सुखमेव च ।
सिंहो रणभयं चैव वैनतेयस्सुखं बहु ।
हंसश्च कार्यविभ्रंशं वाहनादिफलं लभेत् ।
जन्मत्रिपञ्चसप्ताख्यास्तारा नेष्टफलप्रदाः ।
तद्दोषपरिहाराय दद्यादेतद्द्विजातये ।
शाकं गुडञ्च लवणं सतिलं काञ्चनं क्रमात् ।
विपदि प्रत्यगे चैव चरमं चाद्यकं विना ।
स्वोच्चस्वर्क्ष गतश्चान्द्रश्शुभदस्सर्वकर्मसु ।